भगवान् वाल्मीकिः आदिकविः इति बिरुदेन लोके सुप्रसिद्धः। तैः प्रयुक्तानि उपमानानि अलङ्काराः च अद्यापि न केवलं संस्कृतसाहित्ये अन्यासु भाषासु अपि दृश्यन्ते।
उदाहरणतः मन्थरया "गतोदके सेतुबन्धो", भरतेन "व्रणे क्षारमिवादधाः" इत्यादीन् प्रयोगान् ते कृतवन्तः। एतादृशानि उपमानानि
अद्यापि न केवलं भारतस्य भाषासु आङ़्ग्लभाषायामपि प्रचलन्ति। किन्तु वाल्मीकिरामायणं केवलं काव्यमेव नास्ति, एतत् तु
धर्मकाव्यम् अस्ति।
पुरा वाल्मीकिना विरचितं काव्यं भारतस्य जनानां हृदयेषु विशिष्टं स्थानं प्राप्य तेषां जीवनशैली प्रेरिता अभवत् । ब्रह्मणः
वरात् वाल्मीकिनः ध्यानसमये रामायणस्य सर्वाणि दृश्यानि वचनानि चिन्तनान्यपि च "पाणावामलकं" यथा तस्मै गोचराः जाताः।
अतः वाल्मीकिरामायणं प्रामाणिकमपि भवति अस्माकं इतिहासस्य विषये।
एतस्मिन् काव्ये सीतारामयोः दिव्यतायाः अपेक्षया तयोः उत्तमचरित्रस्य वर्णनमेव अधिकतया दृश्यते। रामोऽपि मनुष्यः इव
प्रवर्तते। परन्तु रामः तु स्वयं विष्णोः अवतारः खलु। ततः किमर्थं भगवता वाल्मीकिना रामः मनुष्यः इव चित्र्यते?
किमर्थं इत्युक्ते रामायणकाव्यस्य रचनया वाल्मिकेः महर्षेः प्रयोजनं अन्यं। दुष्कर स्थितिषु अपि कथं धर्मः आचरणीयः
इति विषयः सीतारामयोः उत्तमचारित्रेण महर्षिः लोकेभ्यः प्रदर्शितवान्। तर्हि भगवतः श्रीरामस्य तथा सीतायाः दिव्यता
सर्वज्ञता च विषयाः साक्षात् तु वर्णनं अधिकतया न कृतवन्तः। परन्तु एते विषयाः कतिपयसन्दर्भानां ते सूक्ष्मतया सूचयन्ति।
स्वाध्यायेन एते विषयाः ग्रहणीयाः। एकम् उदाहरणम्।
कैकेय्याः वराभ्याम् रामः चतुर्दशानि वर्षाणि वनं गतवान् भरतः अयोध्याराज्यं प्राप्तवान् च। महर्षेः चतुर्दश इति सङ्ख्यायाः
प्रस्तावः वैविद्यभरितः अस्ति।
कैकेयी दशरथं यदा अर्थयति -
नव प़ञ्च च वर्षाणि दण्डकारण्यमाश्रितः।।2.11.26।।
चीराजिनजटाधारी रामो भवतु तापसः।
यदा कैकेयी रामं शासयति -
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।
अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस।।2.18.37।।
यदा रामः कैकेयीं आश्वासयति -
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश।।2.19.23।।
यदा रामः कौसल्यां सूचयति -
स षट्चाष्टौ च वर्षाणि वत्स्यामि विजने वने।
आसेवमानो वन्यानि फलमूलैश्च वर्तयन्।।2.20.31।।
यदा सीता रामं प्रार्थयति -
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता।।2.30.21।।
एवं चतुर्दश शब्दस्य स्थाने महर्षिः "नवपञ्चच", "सप्तसप्तच", "षट्चाष्टौ", "दशवर्षाणि त्रीणिचैकं" इत्यादीनां शव्दसमूहानां
प्रयोगान् कृतवन्तः। महर्षिः छन्दोबद्धतायाः निरूपणार्थमेव ईदृशाः प्रयोगाः कृतवन्तः वा परिसङ्ख्यायाः शिक्षणाय वा?
अस्माकं पूर्वजानां स्वाध्याये वाल्मीकिरामायणस्य विशिष्टं स्थानमासीत्। सद्यापि बहवः श्रद्धालवः जनाः नित्यं रामायणस्य
पारायणं कुर्वन्ति। ते बुधजनाः वदन्ति एतस्मिन् काव्ये बहूनि मन्त्राणि गोप्यतया भवन्ति। अतः भगवान् वाल्मीकिः
सूक्ष्मतया सीतारामयोः दिव्यता विषयाः सूचयन्ति इति सामान्यमतः।
एवमेव चतुर्दश शब्दस्य विषये अपि महर्षिः भिन्न भिन्न शब्दप्रयोगैः बहुत्र निगूढार्थान् निक्षिप्तवन्तः। सीतायाः
"दशवर्षाणि त्रीणिचैकं" प्रयोगः तस्याः सर्वज्ञतां सूचयति। सुदीर्घं चतुर्दशवर्षाणाम् वनवासे ते दशवर्षाणि यावत् आश्रमेषु,
त्रीणि वर्षाणि पञ्चवट्यां, एकं वर्षं सीता लङ्कायां रामलक्ष्मणौ किष्किन्धायाः समीपे अवसन्। सीता एनं विषयम् आदौ एव
ज्ञातवती तस्मिन् श्लोके सूक्ष्मतया सूचयति। एवमेव वहवः सूक्ष्माः विषयाः स्वाध्यायेन अवगतम् जायते भगवता अस्माकं
विश्वासः वर्ध्यते च।
जय श्रीराम
मम मित्रं श्री राजीववर्यस्य सहायेण।
No comments:
Post a Comment