Friday, April 24, 2020

रामः अन्तरात्मा

भगवता श्रीसत्यसायिनाथेन दत्त: रामायणस्य अन्तरार्थः


देहे देहे रामः विलसति अन्तर्यामिरूपेण । अस्माकम् अन्तरङ्गे सः अस्ति आनन्दधाम आत्मारामः। अन्तरङ्गस्थितायाः आनन्दनिर्झरीतः उद्गच्छन्ति रामस्य शीतलाः शान्तिसौख्यप्रदायकाः आशीर्वादाः । 


समग्रां मानवजातिम् एकेनैव सूत्रेण सन्धातुं शक्तयोः धर्मप्रेम्णोः विग्रहः अस्ति रामः ।

रामायणं द्वौ पाठौ बोधयति यत् निःसङ्गत्वम् अमूल्यम् इति,  प्रत्येकं प्राणिनि ईश्वरस्य दिव्यत्त्वं दर्शनीयम् इति। 


अयोध्यानगरस्य भोगान् परित्यज्य सीता वनवासे श्रीरामस्य सांनिध्यं , ततः काञ्चनमृगस्य मोहात् पतिवियोगं च प्राप्तवती। त्यागात् आनन्दः मोहात् दुःखं च प्राप्येते इति रामायणं ध्रुवीकरोति। 


लोकेऽस्मिन् जीवन्तः वयं लौकिकजीवने निमज्जिताः न भवेम  । 


रामस्य सहोदराः सहचराश्च धर्ममूर्तयः एव। दशरथः दशेन्द्रियसमायुक्तः भौतिकदेहः। तस्य तिस्रः पत्न्यः सत्वरजस्तमोगुणाः । चत्वारः कुमाराः पुरुषार्थाः। लक्ष्मणसुग्रीववालिहनुमतः क्रमशः बुद्धिः, विवेकः दुःखं धैर्यं च सूचयन्ति। भ्रान्तीति सागरस्योपरि सेतुबन्धनं कृतम्। रावणादि भ्रातराः त्रिगुणान् सूचयन्ति। अग्निपरीक्षया इव जीवनानुभवेन ग्रहणीयं सीतारूपि ब्रह्मज्ञानम्। 


रामस्य वैभवस्य चिन्तनेन हृदयं निर्मलं सुदृढं च करणीयम् । रामः एव भवति प्राणाधारं सत्यम् इति स्थिरविश्वासः वर्धनीयः। 


जय श्रीराम


मम मित्रं राजीववर्यस्य सहायेण

No comments:

About Me

My photo
Love to blog. Every time I turn joyous or in extreme pain, I blog. Huge believer of 'charity begins at home'.